Rinmochan Mangal Stotram

Rinmochan Mangal Stotram

॥ ऋणमोचन मङ्गल स्तोत्र ॥

मङ्गलो भूमिपुत्रश्च ऋणहर्ता धनप्रदः।

स्थिरासनो महाकायः सर्वकामविरोधकः॥1॥

लोहितो लोहिताक्षश्च सामगानां कृपाकरः।

धरात्मजः कुजो भौमो भूतिदो भूमिनन्दनः॥2॥

अङ्गारको यमश्चैव सर्वरोगापहारकः।

वृष्टेः कर्ताऽपहर्ता च सर्वकामफलप्रदः॥3॥

एतानि कुजनामानि नित्यं यः श्रद्धया पठेत्।

ऋणं न जायते तस्य धनं शीघ्रमवाप्नुयात्॥4॥

धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम्।

कुमारं शक्तिहस्तं च मङ्गलं प्रणमाम्यहम्॥5॥

स्तोत्रमङ्गारकस्यैतत् पठनीयं सदा नृभिः।

न तेषां भौमजा पीडा स्वल्पापि भवति क्वचित्॥6॥

अङ्गारक महाभाग भगवन् भक्तवत्सल।

त्वां नमामि ममाशेष मृणमाशु विनाशयः॥7॥

ऋणरोगादिदारिद्रयं ये चान्ये चापमृत्यवः।

भयक्लेशमनस्तापा नश्यन्तु मम सर्वदा॥8॥

अतिवक्रदुरारा भोगमुक्तजितात्मनः।

तुष्टो ददासि साम्राज्यं रुष्टो हरसि तत्क्षणात्॥9॥

विरञ्चि शक्रविष्णूनां मनुष्याणां तु का कथा।

तेन त्वं सर्वसत्वेन ग्रहराजो महाबलः॥10॥

पुत्रान्देहि धनं देहि त्वामस्मि शरणं गतः।

ऋणदारिद्रयदुःखेन शत्रुणां च भयात्ततः॥11॥

एभिर्द्वादशभिः श्लोकैर्यः स्तौति च धरासुतम्।

महतीं श्रियमाप्नोति ह्यपरो धनदो युवा॥12॥

॥ इति श्रीस्कन्दपुराणे भार्गवप्रोक्तं
ऋणमोचन मङ्गल स्तोत्रम् सम्पूर्णम् ॥

Today's Astrological Thoughts

“The movement of planets shapes the direction of human life.”

— Ved Vyas

Join Our Astrology WhatsApp Channel

Get daily horoscope updates, astro tips, and lucky insights directly on WhatsApp. Don’t miss your chance to stay one step ahead of destiny!