Shri Ramashtakam

Shri Ramashtakam

॥ श्रीरामाष्टकम् ॥

कृतार्तदेववन्दनं दिनेशवंशनन्दनम्।

सुशोभिभालचन्दनं नमामि राममीश्वरम्॥1॥

मुनीन्द्रयज्ञकारकं शिलाविपत्तिहारकम्।

महाधनुर्विदारकं नमामि राममीश्वरम्॥2॥

स्वतातवाक्यकारिणं तपोवने विहारिणम्।

करे सुचापधारिणं नमामि राममीश्वरम्॥3॥

कुरङ्गमुक्तसायकं जटायुमोक्षदायकम्।

प्रविद्धकीशनायकं नमामि राममीश्वरम्॥4॥

प्लवङ्गसङ्गसम्मतिं निबद्धनिम्नगापतिम्।

दशास्यवंशसङ्क्षतिं नमामि राममीश्वरम्॥5॥

विदीनदेवहर्षणं कपीप्सितार्थवर्षणम्।

स्वबन्धुशोककर्षणं नमामि राममीश्वरम्॥6॥

गतारिराज्यरक्षणं प्रजाजनार्तिभक्षणम्।

कृतास्तमोहलक्षणं नमामि राममीश्वरम्॥7॥

हृताखिलाचलाभरं स्वधामनीतनागरम्।

जगत्तमोदिवाकरं नमामि राममीश्वरम्॥8॥

इदं समाहितात्मना नरो रघूत्तमाष्टकम्।

पठन्निरन्तरं भयं भवोद्भवं न विन्दते॥9॥

॥ इति श्रीपरमहंसस्वामिब्रह्मानन्दविरचितं श्रीरामाष्टकं सम्पूर्णम् ॥

Today's Astrological Thoughts

“The movement of planets shapes the direction of human life.”

— Ved Vyas

Join Our Astrology WhatsApp Channel

Get daily horoscope updates, astro tips, and lucky insights directly on WhatsApp. Don’t miss your chance to stay one step ahead of destiny!