Shri Ramchandra Ashtakam

Shri Ramchandra Ashtakam

॥ श्रीरामचन्द्राष्टकम् ॥

चिदाकारो धाता परमसुखदः पावन-

तनुर्मुनीन्द्रैर्यो- गीन्द्रैर्यतिपतिसुरेन्द्रैर्हनुमता।

सदा सेव्यः पूर्णो जनकतनयाङ्गः सुरगुरु

रमानाथो रामो रमतु मम चित्ते तु सततम्॥1॥

मुकुन्दो गोविन्दो जनकतनयालालितपदः

पदं प्राप्ता यस्याधमकुलभवा चापि शबरी।

गिरातीतोऽगम्यो विमलधिषणैर्वेदवचसा

रमानाथो रामो रमतु मम चित्ते तु सततम्॥2॥

धराधीशोऽधीशः सुरनरवराणां रघुपतिः

किरीटी केयूरी कनककपिशः शोभितवपुः।

समासीनः पीठे रविशतनिभे शान्तमनसो

रमानाथो रामो रमतु मम चित्ते तु सततम्॥3॥

वरेण्यः शारण्यः कपिपतिसखश्चान्तविधुरो

ललाटे काश्मीरो रुचिरगतिभङ्गः शशिमुखः।

नराकारो रामो यतिपतिनुतः संसृतिहरो

रमानाथो रामो रमतु मम चित्ते तु सततम्।॥4॥

विरूपाक्षः कश्यामुपदिशि यन्नाम शिवदं

सहस्रं यन्नाम्नां पठति गिरिजा प्रत्युषसि वै।

स्वलोके गायन्तीश्वरविधिमुखा यस्य चरितं

रमानाथो रामो रमतु मम चित्ते तु सततम्॥5॥

परो धीरोऽधीरोऽसुरकुल- भवश्चासुरहरः

परात्मा सर्वज्ञो नरसुरगणैर्गीतसुयशाः।

अहल्याशापघ्नः शरकरऋजुः कौशिकसखो

रमानाथो रामो रमतु मम चित्ते तु सततम्॥6॥

हृषीकेशः शौरिर्धरणि- धरशायी मधुरिपु-

रुपेन्द्रोवैकुण्ठो गजरिपुहरस्तुष्टमनसा।

बलिध्वंसी वीरो दशरथसुतो नीतिनिपुणो

रमानाथो रामो रमतु मम चित्ते तु सततम्॥7॥

कविः सौमित्रीड्यः कपटमृगघाती वनचरो

रणश्लाघी दान्तो धरणिभरहर्ता सुरनुतः।

अमानी मानज्ञो निखिलजनपूज्यो हृदिशयो

रमानाथो रामो रमतु मम चित्ते तु सततम्॥8॥

इदं रामस्तोत्रं वरममरदासेन रचितमुषः

काले भक्त्या यदि पठति यो भावसहितम्।

मनुष्यः स क्षिप्रं जनिमृतिभयं तापजनकं

परित्यज्य श्रेष्ठं रघुपतिपदं याति शिवदम्॥9॥

॥ इति श्रीमद्रामदासपूज्यपादशिष्य
श्रीमद्धंसदासशिष्येणामरदासाख्यकविना
विरचितं श्रीरामचन्द्राष्टकं समाप्तम् ॥

Today's Astrological Thoughts

“The movement of planets shapes the direction of human life.”

— Ved Vyas

Join Our Astrology WhatsApp Channel

Get daily horoscope updates, astro tips, and lucky insights directly on WhatsApp. Don’t miss your chance to stay one step ahead of destiny!