Saraswati Ashtakam
॥ श्री सरस्वती अष्टकम् ॥
महामते महाप्राज्ञ सर्वशास्त्रविशारद।
अक्षीणकर्मबन्धस्तु पुरुषो द्विजसत्तम॥1॥
मरणे यज्जोपेज्जाप्यं यं च भावमनुस्मरन्।
परं पदमवाप्नोति तन्मे ब्रूहि महामुने॥2॥
इदमेव महाराज पृष्टवांस्ते पितामहः।
भीष्मं धर्मविदां श्रेष्ठं धर्मपुत्रो युधिष्ठिरः॥3॥
पितामह महाप्राज्ञ सर्वशास्त्रविशारदः।
बृहस्पतिस्तुता देवी वागीशेन महात्मना।
आत्मायं दर्शयामासं सूर्य कोटिसमप्रभम्॥4॥
वरं वृणीष्व भद्रं ते यत्ते मनसि विद्यते।
यदि मे वरदा देवि दिव्यज्ञानं प्रयच्छ नः॥5॥
हन्त ते निर्मलज्ञानं कुमतिध्वंसकारणम्।
स्तोत्रणानेन यो भक्तया मां स्तुवन्ति मनीषिण॥6॥
लभते परमं ज्ञानं यतपरैरपि दुर्लभम्।
प्राप्नोति पुरुषो नित्यं महामाया प्रसादतः॥7॥
त्रिसन्ध्यं प्रयतो नित्यं पठेदष्टकमुत्तमम्।
तस्य कण्ठे सदा वासं करिष्यामि न संशयः॥8॥
Today's Astrological Thoughts
“The movement of planets shapes the direction of human life.”